अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 3
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्। यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
स्वर सहित पद पाठअ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥३०.३॥
स्वर रहित मन्त्र
अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम्। यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
स्वर रहित पद पाठअहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवानाम् । उत । मानुषाणाम् । यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥३०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अहम्) परमेश्वरः (एव) अवधारणे। नान्योऽस्ति ममोपदेष्टेति यावत् (स्वयम्) आत्मना (इदम्) अनुभूयमानं ब्रह्मात्मकं वाक्यम् (वदामि) उपदिशामि। प्रकटयामि (जुष्टम्) प्रियं हितम्। सेवितम् (देवानाम्) सूर्यादिलोकानाम् (उत) अपि च (मानुषाणाम्) मननशीलानां मनुष्याणाम् (यम्) उपासकम् (कामये) वाञ्छामि (तम्-तम्) प्रत्येकं वीप्सितं पुरुषम् (उग्रम्) दुष्प्रधर्षं तेजस्विनम् (कृणोमि) करोमि (ब्रह्माणम्) बृंहेर्नोऽच्च। उ० ४।१४६। इति बृहि वृद्धौ-मनिन्। नस्य अकारः। बृंहति वर्धते बृंहयति वर्धयति वेदज्ञानेन स ब्रह्मा। विधातारं ब्रह्माणम् (ऋषिम्) अ० २।६।१। ऋषिर्दर्शनात्-निरु० २।१। आप्तं सन्मार्गदर्शकम् (सुमेधाम्) दीर्घश्छान्दसः। सुमेधम्। सुमेधसम्। शोभनप्रज्ञम् ॥
इस भाष्य को एडिट करें