अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - मृत्युसंतरण सूक्त
यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
स्वर सहित पद पाठयम् । ओ॒द॒नम् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । प्र॒जाऽप॑ति: । तप॑सा । ब्र॒ह्मणे॑ । अप॑चत् । य: । लो॒काना॑म् । विऽधृ॑ति: । न । अ॒भि॒ऽरेषा॑त् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.१॥
स्वर रहित मन्त्र
यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥
स्वर रहित पद पाठयम् । ओदनम् । प्रथमऽजा: । ऋतस्य । प्रजाऽपति: । तपसा । ब्रह्मणे । अपचत् । य: । लोकानाम् । विऽधृति: । न । अभिऽरेषात् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यम्) (ओदनम्) सू० ३४। म० १। सेचकं प्रवर्धकं वा परमात्मानम् (प्रथमजाः) प्रथमेषु श्रेष्ठपुरुषेषु जातः (ऋतस्य) सत्यस्य परब्रह्मरूपस्य (प्रजापतिः) प्रजानां पालको योगिजनः (तपसा) स्वसामर्थ्येन (ब्रह्मणे) ब्रह्मप्राप्तये (अपचत्) पक्वं हृदये दृढं कृतवान् (यः) ओदनः (लोकानाम्) ब्रह्माण्डानाम् (विधृतिः) विधारयिता (न) निषेधे (अभिरेषात्) रिष हिंसायाम्-लडर्थे लेट्, कर्मण्यर्थे। रेष्यते। नश्यति (तेन) (ओदनेन) सेचकेन प्रवर्धकेन अन्नरूपेण वा परमात्मना (अति) अतीत्य (तराणि) पारं गच्छानि प्राप्नवानि (मृत्युम्) मरणकारणं निरुत्साहम् ॥
इस भाष्य को एडिट करें