अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 3
सूक्त - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - मृत्युसंतरण सूक्त
यो दा॒धार॑ पृथि॒वीं वि॒श्वभो॑जसं॒ यो अ॒न्तरि॑क्ष॒मापृ॑णा॒द्रसे॑न। यो अस्त॑भ्ना॒द्दिव॑मू॒र्ध्वो म॑हि॒म्ना ते॑नौद॒नेनाति॑ तराणि मृ॒त्युम् ॥
स्वर सहित पद पाठय: । दा॒धार॑ । पृ॒थि॒वीम् । वि॒श्वऽभो॑जसम् । य: । अ॒न्तरि॑क्षम् । आ॒ऽअपृ॑णात् । रसे॑न । य: । अस्त॑भ्नात् । दिव॑म् । ऊ॒र्ध्व: । म॒हि॒म्ना । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.३॥
स्वर रहित मन्त्र
यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन। यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥
स्वर रहित पद पाठय: । दाधार । पृथिवीम् । विश्वऽभोजसम् । य: । अन्तरिक्षम् । आऽअपृणात् । रसेन । य: । अस्तभ्नात् । दिवम् । ऊर्ध्व: । महिम्ना । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यः) ओदनः (दाधार) धृतवान् (पृथिवीम्) भूमिम् (विश्वभोजसम्) भुज पालनाभ्यवहारयोः-असुन्। सर्वस्य पालयित्रीम् (अन्तरिक्षम्) मध्यलोकम् (आ-अपृणात्) पॄ पालनपूरणयोः-लङ्। सम्यक् पूरितवान् (रसेन) अन्नेन-निघ० २।७। उदकेन-निघ० १।१२। (अस्तभ्नात्) स्तन्भु रोधने-लङ्। अवरुद्धवान्। दृढीकृतवान् (दिवम्) प्रकाशमानं सूर्यम् (ऊर्ध्वः) उपरि वर्तमानः सन् (महिम्ना) महत्त्वेन। प्रभावेण। अन्यत् पूर्ववत् म० १ ॥
इस भाष्य को एडिट करें