अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 6
सूक्त - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - मृत्युसंतरण सूक्त
यस्मा॑त्प॒क्वाद॒मृतं॑ संब॒भूव॒ यो गा॑य॒त्र्या अधि॑पतिर्ब॒भूव॑। यस्मि॒न्वेदा॒ निहि॑ता वि॒श्वरू॑पा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
स्वर सहित पद पाठयस्मा॑त् । प॒क्वात् । अ॒मृत॑म् । स॒म्ऽब॒भूव॑ । य: । गा॒य॒त्र्या: । अधि॑ऽपति: । ब॒भूव॑ । यस्मि॑न् । वेदा॑: । निऽहि॑ता: । वि॒श्वऽरू॑पा: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.६॥
स्वर रहित मन्त्र
यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव। यस्मिन्वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥
स्वर रहित पद पाठयस्मात् । पक्वात् । अमृतम् । सम्ऽबभूव । य: । गायत्र्या: । अधिऽपति: । बभूव । यस्मिन् । वेदा: । निऽहिता: । विश्वऽरूपा: । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यस्मात्) परमात्मनः (पक्वात्) दृढस्वभावात् (अमृतम्) अमरणहेतुः। मोक्षः (संबभूव) उत्पन्नं बभूव (यः) (गायत्र्याः) अ० ३।३।२। अभिनक्षियजि०। उ० ३।१०५। इति गै शब्दे-अत्रन्, स च णित्, ङीप्। गायत्रं गायतेः स्तुतिकर्मणः-निरु० ७।१२। गायनीयायाः स्तुतेः। वेदवाण्याः। (अधिपतिः) स्वामी (बभूव) (यस्मिन्) (वेदाः) विद ज्ञाने, विद सत्तायाम्, विद्लृ लाभे विद विचारणे-घञ्। धर्मब्रह्मप्रतिपादकानि ऋग्यजुःसामाथर्वात्मकानि अपौरुषेयाणि शास्त्राणि (निहिताः) निधिरूपेण स्थापिताः (विश्वरूपाः) खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः। उ० ३।२८। इति रु शब्दे-प, दीर्घश्च। यद्वा रूप रूपक्रियायाम् अच्, रूयते रूप्यते वा रूपम्। सर्वै रूयमाणाः कीर्त्यमानाः। सर्वेषां पदार्थानां रूपका निरूपकाः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें