अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 7
सूक्त - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - मृत्युसंतरण सूक्त
अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॑ ते भवन्तु। ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥
स्वर सहित पद पाठअव॑ । बा॒धे॒ । द्वि॒षन्त॑म् । दे॒व॒ऽपी॒युम् । स॒ऽपत्ना॑: । ये । मे॒ । अप॑ । ते । भ॒व॒न्तु॒ । ब्र॒ह्म॒ऽओ॒द॒नम् । वि॒श्व॒ऽजित॑म् । प॒चा॒मि॒ । शृ॒ण्वन्तु॑ । मे॒ । श्र॒त्ऽदधा॑नस्य । दे॒वा: ॥३५.७॥
स्वर रहित मन्त्र
अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु। ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥
स्वर रहित पद पाठअव । बाधे । द्विषन्तम् । देवऽपीयुम् । सऽपत्ना: । ये । मे । अप । ते । भवन्तु । ब्रह्मऽओदनम् । विश्वऽजितम् । पचामि । शृण्वन्तु । मे । श्रत्ऽदधानस्य । देवा: ॥३५.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अव बाधे) अपवारयामि (द्विषन्तम्) हिंसन्तम् (देवपीयुम्) पीयतिर्हिंसाकर्मा-निरु० ४।२५। खरुशङ्कुपीयु०। उ० १।३६। इति पीयतेः-कु। देवानां हिंसकम् (सपत्नाः) अ० १।९।२। शत्रवः (ये) (मे) मम (अपभवन्तु) दूरे गच्छन्तु (ते) शत्रवः (ब्रह्मौदनम्) ओदन इति व्याख्यातम्-सू० ३४ म० १। प्रवृद्धं सेचकं प्रवर्धकम् अन्नरूपं वा परमात्मानम् (विश्वजितम्) सर्वस्य जेतारम् (पचामि) परिपक्वं दृढं करोमि (शृण्वन्तु) आकर्णयन्तु (मे) मम वाक्यम् (श्रद्दधानस्य) श्रद्धाधारकस्य (देवाः) व्यवहारिणो विद्वांसः ॥
इस भाष्य को एडिट करें