Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 8
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - जगती सूक्तम् - ब्रह्मौदन सूक्त

    इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्। स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥

    स्वर सहित पद पाठ

    इ॒मम् । ओ॒द॒नम् । नि । द॒धे॒ । ब्रा॒ह्म॒णेषु॑ । वि॒ष्टा॒रिण॑म् । लो॒क॒ऽजित॑म् । स्व॒:ऽगम् । स: । मे॒ । मा । क्षे॒ष्ट॒ । स्व॒धया॑ । पिन्व॑मान: । वि॒श्वऽरू॑पा । धे॒नु: । का॒म॒ऽदुघा॑ । मे॒ । अ॒स्तु॒ ॥३४.८॥


    स्वर रहित मन्त्र

    इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम्। स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥

    स्वर रहित पद पाठ

    इमम् । ओदनम् । नि । दधे । ब्राह्मणेषु । विष्टारिणम् । लोकऽजितम् । स्व:ऽगम् । स: । मे । मा । क्षेष्ट । स्वधया । पिन्वमान: । विश्वऽरूपा । धेनु: । कामऽदुघा । मे । अस्तु ॥३४.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 8

    टिप्पणीः - ८−(इमम्) निर्दिष्टम् (ओदनम्) सेचनशीलं प्रवर्धकम् अन्नरूपं वा परमात्मानं (नि) नितराम् (दधे) धरामि (ब्राह्मणेषु) अ० ४।६।१। वेदवेत्तृषु पण्डितेषु (विष्टारिणम्) म० १। विस्तारवन्तम् (लोकजितम्) सर्वलोकजेतारम् (स्वर्गम्) सुष्ठु अर्जनीयं सुखस्वरूपम् (सः) ओदनः (मे) मह्यम् (मा क्षेष्ट) क्षि क्षये, माङि लुङ्। क्षयं मा प्राप्नोतु (स्वधया) स्वधारणशक्त्या। (पिन्वमानः) वर्धमानः (विश्वरूपा) सर्वाङ्गसिद्धा (धेनुः) अ० ३।१०।१। वाङ्नाम-निघ० १।१२। तर्पयित्री वेदवाणी (कामदुघा) दुहः कब्घश्च। पा० ३।२।७०। इति काम+दुह प्रपूरणे-कप्, हस्य घः। उत्तमकामानां दोग्ध्री प्रपूरयित्री। अभीष्टसम्पादयित्री (मे) मह्यम् (अस्तु) ॥

    इस भाष्य को एडिट करें
    Top