अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 6
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - ब्रह्मौदन सूक्त
घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
स्वर सहित पद पाठघृ॒तऽहृ॑दा: । मधु॑ऽकूला: । सुरा॑ऽउदका: । क्षी॒रेण॑ । पू॒र्णा: । उ॒द॒केन॑ । द॒ध्ना । ए॒ता: ।त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.६॥
स्वर रहित मन्त्र
घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥
स्वर रहित पद पाठघृतऽहृदा: । मधुऽकूला: । सुराऽउदका: । क्षीरेण । पूर्णा: । उदकेन । दध्ना । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(घृतह्रदाः) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ क्षरणदीप्त्योः-क्त। घृतं प्रकाशः। ह्राद अव्यक्ते शब्दे-अच्, निपातः। प्रकाशयुक्त-ध्वनयः (मधुकूलाः) कूल आवरणे-अच्। मधु ज्ञानं कूलम्, आवरणं रक्षासाधनं यासां ताः (सुरोदकाः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षु प्रसवैश्वर्ययोः, यद्वा षुञ् अभिषवे-क्रन्।, यद्वा, षुर ऐश्वर्यदीप्त्योः=क, टाप्। सुरा=उदकम्-निघ० १।१५। सुरा सुनोतेः-निरु० १।११। सुराणां पत्नी शक्तिः सुरा। उदकं च। उ० २।३९। इति उन्दी क्लेदने-क्वुन्। सुरा, ऐश्वर्यं तत्त्वमथनं वा, उदकं सेचनं यासां ताः (क्षीरेण) घसेः किच्च। उ० ४।३४। इति घस्लृ अदने-ईरन्। वा क्षर संचलने-डीरन्। क्षीरम् उदकम्-निघ० १।१२। क्षीरं क्षरतेर्घसेर्वेरो नामकरण उशीरमिति यथा-निरु० २।५। भोजनसाधनेन (पूर्णाः) पूरिताः (उदकेन) सेचनसाधनेन (दध्ना) अ० ३।१२।७। दधि धारणं पोषणं तेन। अन्यत् पूर्ववत् म० ५ ॥
इस भाष्य को एडिट करें