अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 2
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्। नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥
स्वर सहित पद पाठअ॒न॒स्था: । पू॒ता: । पव॑नेन । शु॒ध्दा: । शुच॑य: । शुचि॑म् । अपि॑ । य॒न्ति॒ । लो॒कम् । न । ए॒षा॒म् । शि॒श्नम् । प्र । द॒ह॒ति॒ । जा॒तऽवे॑दा: । स्व॒:ऽगे । लो॒के । ब॒हु । स्त्रैण॑म् । ए॒षा॒म् ३४.२॥
स्वर रहित मन्त्र
अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्। नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥
स्वर रहित पद पाठअनस्था: । पूता: । पवनेन । शुध्दा: । शुचय: । शुचिम् । अपि । यन्ति । लोकम् । न । एषाम् । शिश्नम् । प्र । दहति । जातऽवेदा: । स्व:ऽगे । लोके । बहु । स्त्रैणम् । एषाम् ३४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अनस्थाः) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपणे−क्थिन्। इति अस्थि क्षेपणम्। छन्दस्यपि दृश्यते। पा० ७।१।७६। इति अस्थि शब्दस्य अनङ् आदेशः। अनसनीयाः। अक्षेपणीयाः। अनिवारणीयाः, इत्यर्थः (पूताः) पवित्रीकृताः (पवनेन) शोधनकर्मणा (शुद्धाः) निर्मलाः (शुचयः) दीप्यमानाः परमयोगिनः (शुचिम्) दीप्यमानं ज्योतिर्मयम् (अपि) अवधारणे (यन्ति) प्राप्नुवन्ति (लोकम्) परब्रह्मधाम (न) निषेधे (एषाम्) योगिनाम् (शिश्नम्) इण्सञ्जि०। उ० ३।२। इति शश प्लुतगतौ-नक्। शिश्नं श्नथतेः-निरु० ४।१९। गतिम्। बलम् (प्र) (दहति) भस्मीकरोति (जातवेदाः) अ० १।७।२। जातानां वेदिता परमेश्वरः (स्वर्गे) सु+अर्ज-घञ्। सुष्ठु अर्जनीये। सुखप्रदे (लोके) स्थाने (बहु) विपुलम् (स्त्रैणम्) स्त्यायतेर्ड्रट्। उ० ४।१६६। इति स्त्यै शब्दसंघातयोः-ड्रट्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। टित्वात् ङीप्। इति स्त्री संहतिः। स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। पा० ४।१।८७। तस्मै हितम्। पा० ५।१।५। इति हितार्थे नञ्। स्त्रीभ्यः संहतिभ्यः सृष्टिभ्यो हितम् (एषाम्) ॥
इस भाष्य को एडिट करें