अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
स्वर सहित पद पाठवि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । अव॑र्ति: । स॒च॒ते॒ । क॒दा । च॒न । आस्ते॑ । य॒मे । उप॑ । या॒ति॒ । दे॒वान् । सम् । ग॒न्ध॒र्वै: । म॒द॒ते॒ । सो॒म्येभि॑: ॥३४.३॥
स्वर रहित मन्त्र
विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥
स्वर रहित पद पाठविष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(विष्टारिणम्) म० १। विस्तारवन्तम् (ओदनम्) म० १। सेचनशीलम् अन्नरूपं वा परमात्मानम् (ये) महात्मानो योगिनः (पचन्ति) पक्वं श्रद्धया दृढं कुर्वन्ति (न) निषेधे (एनान्) एतान् योगिनः (अवर्तिः) हृपिषिरुहिवृति०। उ० ४।११९। इति वृतु वर्तने-इन्। वर्तिर्वृत्तिः, जीविका। तदभावः अवर्तिः। दारिद्र्यम् (सचते) समवैति यः (कदा चन) कदाचिदपि (आस्ते) तिष्ठति (यमे) नियमे न्यायकारिणि परमात्मनि वा (उप) अधिकम् (याति) प्राप्नोति सः (देवान्) दिव्यगुणान् (सम्) सह भूत्वा (गन्धर्वैः) अ० २।१।२। गवां पृथिव्यादिलोकानां वेदवाणीनां वा धारकैः (मदते) हृष्यति (सोम्यैः) सोमार्हैः ऐश्वर्ययोग्यैः ॥
इस भाष्य को एडिट करें