अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 1
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑। छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥
स्वर सहित पद पाठब्रह्म॑ । अ॒स्य॒ । शी॒र्षम् । बृ॒हत् । अ॒स्य॒ । पृ॒ष्ठम् । वा॒म॒ऽदे॒व्यम् । उ॒दर॑म् । ओ॒द॒नस्य॑ । छन्दां॑सि । प॒क्षौ । मुख॑म् । अ॒स्य॒ । स॒त्यम् । वि॒ष्टा॒री । जा॒त: । तप॑स: । अधि॑ । य॒ज्ञ: ॥३४.१॥
स्वर रहित मन्त्र
ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य। छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥
स्वर रहित पद पाठब्रह्म । अस्य । शीर्षम् । बृहत् । अस्य । पृष्ठम् । वामऽदेव्यम् । उदरम् । ओदनस्य । छन्दांसि । पक्षौ । मुखम् । अस्य । सत्यम् । विष्टारी । जात: । तपस: । अधि । यज्ञ: ॥३४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ब्रह्म) वेदः (अस्य) प्रत्यक्षस्य (शीर्षम्) शिरः (बृहत्) प्रवृद्धं जगत् (पृष्ठम्) पृष्ठभागः (वामदेव्यम्) वामदेवाड् ड्यड्ड्यौ। पा० ४।२।९। इति वामदेव−ड्य। वामदेवेन दृष्टं विज्ञातं विज्ञापितं वा-इति दयानन्दभाष्ये यजु० १२।४। वामो वल्गुरेव देवः, वामदेवः, परमेश्वरः, तेन विज्ञापितं भूतपञ्चकम् (उदरम्) उदरस्थानीयम् (ओदनस्य) अ० ४।१४।७। सेचनशीलस्य प्रवर्धकस्य अन्नरूपस्य वा परमात्मनः (छन्दांसि) चन्देरादेश्च छः। उ० ४।२१९। इति चदि आह्लादने-असुन्, चस्य छः। छन्दति, अर्चतिकर्मा-निघ० ३।१४। छन्दांसि छादनात्-निरु० ७।१२। आह्लादकर्माणि। अर्चनीय-कर्माणि (पक्षौ) पक्ष परिग्रहे-अच्। पार्श्वौ (मुखम्) (सत्यम्) याथार्थ्यम् (विष्टारी) अत इनिठनौ। पा० ५।२।११५। इति विस्तार-इनि। विस्तारवान् (जातः) प्रादुर्भूतः (तपसः) स्वैश्वर्यात् (अधि) उपरि (यज्ञः) यजनीयः। ओदनः। परमेश्वरः ॥
इस भाष्य को एडिट करें