Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 4
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - उत्तमा भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑। र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ॥

    स्वर सहित पद पाठ

    वि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । य॒म: । परि॑ । मु॒ष्णा॒ति॒ । रेत॑: । र॒थी । ह॒ । भू॒त्वा । र॒थ॒ऽयाने॑ । ई॒य॒ते॒ । प॒क्षी । ह॒ । भू॒त्वा । अति॑ । दिव॑: । सम् । ए॒ति॒ ॥३४.४॥


    स्वर रहित मन्त्र

    विष्टारिणमोदनं ये पचन्ति नैनान्यमः परि मुष्णाति रेतः। रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥

    स्वर रहित पद पाठ

    विष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । यम: । परि । मुष्णाति । रेत: । रथी । ह । भूत्वा । रथऽयाने । ईयते । पक्षी । ह । भूत्वा । अति । दिव: । सम् । एति ॥३४.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 4

    टिप्पणीः - ४-पचन्तीत्यन्तं व्याख्यातम् म० ३। (न) निषेधे (एनान्) एतान्। अपादाने द्वितीया (यमः) नियमः (परि) वर्जने (मुष्णाति) द्विकर्मकः। अपहरति (रेतः) बलं सामर्थ्यम् (रथो) रथ-इनि। रथवान् (ह) अवधारणे (भूत्वा) (रथयाने) रथेन शरीरेण यातव्ये लोके (ईयते) ईङ् गतौ। संचरति (पक्षी) पक्ष परिग्रहे-अच्, तत-इनि। पक्षवान् परिग्रही (अति) अत्यन्तम् (दिवः) प्रकाशमानान् लोकान् (समेति) सम्यक् प्राप्नोति ॥

    इस भाष्य को एडिट करें
    Top