Loading...
अथर्ववेद > काण्ड 5 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च। सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येश॑ते ॥

    स्वर सहित पद पाठ

    परा॑ । अ॒मित्रा॑न् । दु॒न्दु॒भिना॑ । ह॒रि॒णस्य॑ । अ॒जिने॑न । च॒ । सर्वे॑ । दे॒वा: । अ॒ति॒त्र॒स॒न् । ये । स॒म्ऽग्रा॒मस्य॑ । ईश॑ते ॥२१.७॥


    स्वर रहित मन्त्र

    परामित्रान्दुन्दुभिना हरिणस्याजिनेन च। सर्वे देवा अतित्रसन्ये संग्रामस्येशते ॥

    स्वर रहित पद पाठ

    परा । अमित्रान् । दुन्दुभिना । हरिणस्य । अजिनेन । च । सर्वे । देवा: । अतित्रसन् । ये । सम्ऽग्रामस्य । ईशते ॥२१.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 7

    टिप्पणीः - ७−(परा) पराजित्य (अमित्रान्) म० १। शत्रून् (दुन्दुभिना) बृहड्ढक्कया (हरिणस्य) मृगस्य (अजिनेन) अजिन−अर्शआद्यच्। चर्मयुक्तेन (च) निश्चयेन (सर्वे) सकलाः (देवाः) महात्मानः (अतित्रसन्) त्रसी उद्वेगे णिचि लुङ्। त्रासितवन्तः (ये) देवाः (संग्रामस्य) युद्धस्य (ईशते) ईश्वरा भवन्ति ॥

    इस भाष्य को एडिट करें
    Top