Loading...
अथर्ववेद > काण्ड 5 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥

    स्वर सहित पद पाठ

    विऽहृ॑दयम् । वै॒म॒न॒स्य । वद॑ । अ॒मित्रे॑षु । दु॒न्दु॒भे॒ । वि॒ऽद्वे॒षम् । कश्म॑शम् । भ॒यम् । अ॒मित्रे॑षु । नि । द॒ध्म॒सि॒। अव॑ । ए॒ना॒न् । दु॒न्दु॒भे॒ । ज॒हि॒ ॥२१.१॥


    स्वर रहित मन्त्र

    विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे। विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान्दुन्दुभे जहि ॥

    स्वर रहित पद पाठ

    विऽहृदयम् । वैमनस्य । वद । अमित्रेषु । दुन्दुभे । विऽद्वेषम् । कश्मशम् । भयम् । अमित्रेषु । नि । दध्मसि। अव । एनान् । दुन्दुभे । जहि ॥२१.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 1

    टिप्पणीः - १−(विहृदयम्) वि विकृतं हृदयं यस्मात् तत् (वैमनस्यम्) विमनसो भावः−ष्यञ्। मनोग्लानिम् (वद) ज्ञापय (अमित्रेषु) अ० १।१९।२। पीडकेषु शत्रुषु (दुन्दुभे) सू० २० म० १। हे बृहड्ढक्के (विद्वेषम्) वैरिभावम् (कश्मशम्) कश गतिशासनयोः−क्विप्+मष हिंसायाम्−घञर्थे क, षस्य शः। कशः गतेः प्रवृत्तेर्मशं नाशम् (भयम्) दरम् (निदध्मसि) निरंतरं धारयामः (अव) दूरे (एनान्) शत्रून् (जहि) हन हिंसागत्योः। गमय ॥

    इस भाष्य को एडिट करें
    Top