अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
ज्या॑घो॒षा दु॑न्दु॒भयो॒ऽभि क्रो॑शन्तु॒ या दिशः॑। सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ॥
स्वर सहित पद पाठज्या॒ऽघो॒षा: । दु॒न्दु॒भय॑: । अ॒भि । क्रो॒श॒न्तु॒ । या: । दिश॑: । सेना॑:। परा॑ऽजिता: । य॒ती: । अ॒मित्रा॑णाम् । अ॒नी॒क॒ऽश: ॥२१.९॥
स्वर रहित मन्त्र
ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः। सेनाः पराजिता यतीरमित्राणामनीकशः ॥
स्वर रहित पद पाठज्याऽघोषा: । दुन्दुभय: । अभि । क्रोशन्तु । या: । दिश: । सेना:। पराऽजिता: । यती: । अमित्राणाम् । अनीकऽश: ॥२१.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(ज्याघोषाः) मौर्वीध्वनयः (दुन्दुभयः) (अभि) प्रति (क्रोशन्तु) गर्जन्तु (याः) या गतौ−ड, टाप्। व्यापिकाः (दिशः) अत्यन्तसंयोगे द्वितीया। पूर्वादि दिशाः (सेनाः) सेनादलान् (पराजिताः) अभिभूताः (यतीः) इण्−शतृ, ङीप्। गच्छन्तीः (अमित्राणाम्) शत्रूणाम् (अनीकशः) म० ८। श्रेण्या श्रेण्या ॥
इस भाष्य को एडिट करें