Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    अ॑च्युत॒च्युत्स॒मदो॒ गमि॑ष्ठो॒ मृधो॒ जेता॑ पुरए॒तायो॒ध्यः। इन्द्रे॑ण गु॒प्तो वि॒दथा॑ निचिक्यद्धृ॒द्द्योत॑नो द्विष॒तां या॑हि॒ शीभ॑म् ॥

    स्वर सहित पद पाठ

    अ॒च्यु॒त॒ऽच्युत् । स॒ऽमद॑: । गमि॑ष्ठ: । मृध॑: । जेता॑ । पु॒र॒:ऽए॒ता । अ॒यो॒ध्य: । इन्द्रे॑ण । गु॒प्त: । वि॒दथा॑ । नि॒ऽचिक्य॑त । हृ॒त्ऽद्योत॑न: । द्वि॒ष॒ताम् । या॒हि॒ । शीभ॑म् ॥२०.१२॥


    स्वर रहित मन्त्र

    अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः। इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥

    स्वर रहित पद पाठ

    अच्युतऽच्युत् । सऽमद: । गमिष्ठ: । मृध: । जेता । पुर:ऽएता । अयोध्य: । इन्द्रेण । गुप्त: । विदथा । निऽचिक्यत । हृत्ऽद्योतन: । द्विषताम् । याहि । शीभम् ॥२०.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 12

    टिप्पणीः - १२−(अच्युतच्युत्) च्युङ् गतौ−क्त+च्युङ्−क्विप्, तुक् च। अनधःपतितानां शत्रूणामधः पातयिता (समदः) सहर्षः (गमिष्ठः) गन्तृ−इष्ठन्। अतिशयेन गतिवान् (मृधः) मृध हिंसायाम्−क्विप्, संग्रामान्−निघ० २।१७। (जेता) जयशीलः (पुरएता) अग्रगामी (अयोध्यः) केनापि योद्धुमशक्यः। अबाध्यः (इन्द्रेण) ऐश्वर्यवता सेनापतिना (गुप्तः) रक्षितः (विदथा) अ० १।१३।४। शेर्लोपः। वेदितव्यानि कर्माणि (निचिक्यत्) कि ज्ञाने जुहो०−शतृ। निश्चयेन जानन् (हृद्द्योतनः) द्युत−दीप्तौ−ल्युट्। द्योतते ज्वलतिकर्मा−निघ० १।१६। हृदयानां तापकः (द्विषताम्) द्वेषं कुर्वताम् (याहि) गच्छ (शीभम्) म० ७। शीघ्रम् ॥

    इस भाष्य को एडिट करें
    Top