Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    दु॑न्दु॒भेर्वाचं॒ प्रय॑तां॒ वद॑न्तीमाशृण्व॒ती ना॑थि॒ता घोष॑बुद्धा। नारी॑ पु॒त्रं धा॑वतु हस्त॒गृह्या॑मि॒त्री भी॒ता स॑म॒रे व॒धाना॑म् ॥

    स्वर सहित पद पाठ

    दु॒न्दु॒भे: । वाच॑म् । प्रऽय॑ताम् । वद॑न्तीम् । आ॒ऽशृ॒ण्व॒ती । ना॒थि॒ता । घोष॑ऽबुध्दा । नारी॑ । पु॒त्रम् । धा॒व॒तु॒ । ह॒स्त॒ऽगृह्य॑ । आ॒मि॒त्री । भी॒ता । स॒म्ऽअ॒रे । व॒धाना॑म् ॥२०.५॥


    स्वर रहित मन्त्र

    दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा। नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥

    स्वर रहित पद पाठ

    दुन्दुभे: । वाचम् । प्रऽयताम् । वदन्तीम् । आऽशृण्वती । नाथिता । घोषऽबुध्दा । नारी । पुत्रम् । धावतु । हस्तऽगृह्य । आमित्री । भीता । सम्ऽअरे । वधानाम् ॥२०.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 5

    टिप्पणीः - ५−(दुन्दुभेः) बृहड्ढक्कायाः (वाचम्) ध्वनिम् (प्रयताम्) यम उपरमे−क्त। नियमयुक्ताम् (वदन्तीम्) प्रतिध्वनन्तीम् (आशृण्वतीम्) आकर्णयन्तीम् (नाथिता) अ० ४।२३।७। अधीना (घोषबुद्धा) ध्वनिना जागरिता (नारी) भार्या (पुत्रम्) सुतम् (धावतु) वेगेन गच्छतु (हस्तगृह्य) अ० ५।१४।४। हस्ते गृहीत्वा (आमित्री) अमित्र−अण्, ङीप्। शात्रवी (भीता) भययुक्ता (समरे) ऋच्छेररः। उ० ३।१३१। इति सम्+ऋ गतौ−अर, यद्वा ॠ−अप्। युद्धे (वधानाम्) हननायुधानाम् ॥

    इस भाष्य को एडिट करें
    Top