Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - जगती सूक्तम् - शत्रुसेनात्रासन सूक्त

    उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥

    स्वर सहित पद पाठ

    उ॒च्चै:ऽघो॑ष: । दु॒न्दु॒भि: । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वाच॑म् । क्षु॒णु॒वा॒न: । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒ह:ऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥


    स्वर रहित मन्त्र

    उच्चैर्घोषो दुन्दुभिः सत्वनायन्वानस्पत्यः संभृत उस्रियाभिः। वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्नभि तंस्तनीहि ॥

    स्वर रहित पद पाठ

    उच्चै:ऽघोष: । दुन्दुभि: । सत्वनाऽयन् । वानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । वाचम् । क्षुणुवान: । दमयन् । सऽपत्नान् । सिंह:ऽइव । जेष्यन् । अभि । तंस्तनीहि ॥२०.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 1

    टिप्पणीः - १−(उच्चैर्घोषः) उच्चध्वनिः (दुन्दुभिः) दुन्दु इति शब्देन भाति, भा−कि। वाद्यविशेषः। बृहड्ढक्का (सत्वनायन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्। दस्य तः। सत्वा पराक्रमी पुरुषः। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति सत्वन्−क्यङ्, शतृ, सत्वन शब्दस्य अकारान्तता छान्दसी। पराक्रमीवाचरन् (वानस्पत्यः) अ० ३।६।६। वनस्पति−ण्य। वनस्पतिभ्यः सेव्यानां पालकेभ्यः सेनापतिभ्य आगतः (संभृतः) सम्यग्धृतः (उस्रियाभिः) अ० ३।८।१। वसति यत्र, वस−रक्, टाप्। उस्रा वसतिः। राष्ट्रावारपाराद्घखौ। पा० ४।२।९३। इति घ। वसति रक्षिकाभिः सेनाभिः (वाचम्) ध्वनिम् (क्षुणुवानः) टुक्षु शब्दे−स्वादिः, शानच्। शब्दायमानः (दमयन्) अभिभवन् (सपत्नान्) शत्रून् (सिंहः इव) (जेष्यन्) जेतुमिच्छन् (अभि) सर्वतः (तंस्तनीहि) स्तन गर्जने यङ्लुकि छान्दसो लोट्। तंस्तनीहि। भृशं गर्ज ॥

    इस भाष्य को एडिट करें
    Top