Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धोऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व। वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ ऐ॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ॥

    स्वर सहित पद पाठ

    सिं॒ह:ऽइ॑व । अ॒स्ता॒नी॒त् । द्रु॒वय॑: । विऽब॑ध्द: । अ॒भि॒ऽक्रन्द॑न् । ऋ॒ष॒भ: । वा॒सि॒ताम्ऽइ॑व । वृषा॑ । त्वम् । वध्र॑य: । ते॒ । स॒ऽपत्ना॑: । ऐ॒न्द्र: । ते॒ । शुष्म॑: । अ॒भि॒मा॒ति॒ऽस॒ह: ॥२०.२॥


    स्वर रहित मन्त्र

    सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्नृषभो वासितामिव। वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥

    स्वर रहित पद पाठ

    सिंह:ऽइव । अस्तानीत् । द्रुवय: । विऽबध्द: । अभिऽक्रन्दन् । ऋषभ: । वासिताम्ऽइव । वृषा । त्वम् । वध्रय: । ते । सऽपत्ना: । ऐन्द्र: । ते । शुष्म: । अभिमातिऽसह: ॥२०.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 2

    टिप्पणीः - २−(सिंहः इव) (अस्तानीत्) अगर्जीत् (द्रुवयः) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति द्रु गतौ−कयन्। कलेवरम्। दुन्दुभिरित्यर्थः (विबद्धः) विशेषेण बद्धः (अभिक्रन्दन्) अभितः शब्दं कुर्वन् (ऋषभः) बलीवर्दः (वासिताम्) दृश्याभ्यामितन्। उ० ३।९३। इति वस निवासे−इतन्, स च णित्। उस्राम्। गाम् (इव) यथा (वृषा) ऐश्वर्यवान् (त्वम्) दुन्दुभे (वध्रयः) अ० ३।९।२। निवीर्याः (ते) तव (सपत्नाः) शत्रवः (ऐन्द्रः) इन्द्र−अण्। ऐश्वर्यवान् (ते) (शुष्मः) बलम् (अभिमातिषाहः) अभिमानिनां जेता ॥

    इस भाष्य को एडिट करें
    Top