Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि। इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ॥

    स्वर सहित पद पाठ

    धी॒भि: । कृ॒त: । प्र । व॒दा॒ति॒ । वाच॑म् । उत् । ह॒र्ष॒य॒ । सत्व॑नाम् । आयु॑धानि । इन्द्र॑ऽमेदी । सत्व॑न: । नि । ह्व॒य॒स्व॒ । मि॒त्रै: । अ॒मित्रा॑न् । अव॑ । ज॒ङ्घ॒नी॒हि॒ ॥२०.८॥


    स्वर रहित मन्त्र

    धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि। इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्राँ अव जङ्घनीहि ॥

    स्वर रहित पद पाठ

    धीभि: । कृत: । प्र । वदाति । वाचम् । उत् । हर्षय । सत्वनाम् । आयुधानि । इन्द्रऽमेदी । सत्वन: । नि । ह्वयस्व । मित्रै: । अमित्रान् । अव । जङ्घनीहि ॥२०.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 8

    टिप्पणीः - ८−(धीभिः) शिल्पकर्मभिः। धीः कर्मनाम−निघ० २।१। (कृतः) निष्पादितः (प्र) प्रकर्षेण (वदाति) कथयतु (वाचम्) शब्दम् (उत् हर्षय) ऊर्ध्वानि कुरु (सत्वनाम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्, दस्य तः। गतिशीलानां वीराणाम् (आयुधानि) शस्त्राणि (इन्द्रमेदी) ऐश्वर्यवतः सेनापतेः स्नेही (सत्वनः) वीरान् (नि) नियमेन (ह्वयस्व) आह्वय (मित्रैः) सुहृद्भिः (अमित्रान्) शत्रून् (अव) अधः-पातेन (जङ्घनीहि) हन हिंसागत्योः−यङ्लुकि लोटि छान्दसं रूपम्। जङ्घनीहि भृशं मारय ॥

    इस भाष्य को एडिट करें
    Top