अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
श्रेयः॑केतो वसु॒जित्सही॑यान्त्संग्राम॒जित्संशि॑तो॒ ब्रह्म॑णासि। अं॒शूनि॑व॒ ग्रावा॑धि॒षव॑णे॒ अद्रि॑र्ग॒व्यन्दु॑न्दु॒भेऽधि॑ नृत्य॒ वेदः॑ ॥
स्वर सहित पद पाठश्रेय॑:ऽकेत: । व॒सु॒ऽजित् । सही॑यान् । सं॒ग्रा॒म॒ऽजित् । सम्ऽशि॑त: । ब्रह्म॑णा । अ॒सि॒ । अं॒शून्ऽइ॑व । ग्रावा॑ । अ॒धि॒ऽसव॑ने । अद्रि॑: । ग॒व्यन् । दु॒न्दु॒भे॒ । अधि॑ । नृ॒त्य॒ । वेद॑: ॥२०.१०॥
स्वर रहित मन्त्र
श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि। अंशूनिव ग्रावाधिषवणे अद्रिर्गव्यन्दुन्दुभेऽधि नृत्य वेदः ॥
स्वर रहित पद पाठश्रेय:ऽकेत: । वसुऽजित् । सहीयान् । संग्रामऽजित् । सम्ऽशित: । ब्रह्मणा । असि । अंशून्ऽइव । ग्रावा । अधिऽसवने । अद्रि: । गव्यन् । दुन्दुभे । अधि । नृत्य । वेद: ॥२०.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(श्रेयःकेतः) हसिमृग्रिण्०। उ० ३।८६। इति कि ज्ञाने−तन्। यद्वा, चायः की। उ० १।७४। इति निर्देशात्, चायृ पूजानिशामनयोः−तन्प्रत्यये धातोः किरादेशो गुणश्च। केतः प्रज्ञानाम−निघ० ३।९। श्रेयसः कल्याणस्य प्रज्ञा यस्मात् सः (वसुजित्) धनस्य जेता (सहीयान्) अ० ४।३२।४। बलवत्तरः (संग्रामजित्) संग्रामाणां जेता (संशितः) तीक्ष्णीकृतः (ब्रह्मणा) वेदद्वारा (असि) (अंशून्) अंश विभाजने−कु। सूक्ष्मांशान् (इव) यथा (ग्रावा) अ० ३।१०।४। गॄ विज्ञापने−क्वनिप्। शास्त्रविज्ञापकः पण्डितः (अधिषवणे) सुयुरुवृञो युच्। उ० २।७४। इति षुञ् अभिषवे−युच्। तत्त्वानामधिकमन्थने (अद्रिः) अधिशदिभूशुभिभ्यः क्रिन्। उ० ४।६५। इति अद भक्षणे−क्रिन्। यद्वा नञ्+दॄ विदारणे−रिन्, टिलोपः। अविदारणीयः। निश्चलस्वभावः (गव्यन्) म० ३। भूमिमिच्छन् (दुन्दुभे) (अधि) अधिकृत्य (नृत्य) चेष्टां कुरु (वेदः) शत्रुधनम् ॥
इस भाष्य को एडिट करें