अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
सं॒क्रन्द॑नः प्रव॒दो धृ॒ष्णुषे॑णः प्रवेद॒कृद्ब॑हु॒धा ग्रा॑मघो॒षी। श्रेयो॑ वन्व॒नो व॒युना॑नि वि॒द्वान्की॒र्तिं ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे ॥
स्वर सहित पद पाठस॒म्ऽक्रन्द॑न: । प्र॒ऽव॒द: । धृ॒ष्णुऽसे॑न: । प्र॒वे॒द॒ऽकृत् । ब॒हु॒ऽधा । ग्रा॒म॒ऽघो॒षी । श्रेय॑: । व॒न्वा॒न: । व॒युना॑नि । वि॒द्वान् । की॒र्तिम् । ब॒हुऽभ्य॑: । वि । ह॒र॒ । द्वि॒ऽरा॒जे ॥२०.९॥
स्वर रहित मन्त्र
संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी। श्रेयो वन्वनो वयुनानि विद्वान्कीर्तिं बहुभ्यो वि हर द्विराजे ॥
स्वर रहित पद पाठसम्ऽक्रन्दन: । प्रऽवद: । धृष्णुऽसेन: । प्रवेदऽकृत् । बहुऽधा । ग्रामऽघोषी । श्रेय: । वन्वान: । वयुनानि । विद्वान् । कीर्तिम् । बहुऽभ्य: । वि । हर । द्विऽराजे ॥२०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(संक्रन्दनः) सम्यक् शब्दायमानः (प्रवदः) बहुगर्जनशीलः (धृष्णुषेणः) प्रगल्भसेनायुक्तः (प्रवेदकृत्) प्रज्ञानकर्ता (बहुधा) बहुप्रकारेण (ग्रामघोषी) सेनादलेषु घोषशीलः (श्रेयः) प्रशस्य−ईयसुन्। प्रशस्यतरं कल्याणम् (वन्वानः) वन सम्भक्तौ उपकारे−च−शानच्। उपकुर्वन् (वयुनानि) ज्ञानानि। नियमान् (विद्वान्) जानन् (कीर्तिम्) हृपिषिरुहि०। उ० ४।११९। इति कॄत संशब्दने−इन्। यशः (बहुभ्यः) बहुवीरेभ्यः (व) विविधम् (हर) प्रापय (द्विराजे) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति द्वि+राजन्−टच्। द्वाभ्यां राजभ्यां कृते युद्धे ॥
इस भाष्य को एडिट करें