Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - कुष्ठतक्मनाशन सूक्त

    यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः। कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥

    स्वर सहित पद पाठ

    य: । गि॒रिषु॑ । अजा॑यथा: । वी॒रुधा॑म् । बल॑वत्ऽतम: ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒त: ॥४.१॥


    स्वर रहित मन्त्र

    यो गिरिष्वजायथा वीरुधां बलवत्तमः। कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥

    स्वर रहित पद पाठ

    य: । गिरिषु । अजायथा: । वीरुधाम् । बलवत्ऽतम: ।कुष्ठ । आ । इहि । तक्मऽनाशन । तक्मानम् । नाशयन् । इत: ॥४.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 1

    टिप्पणीः - १−(यः) यस्त्वम् (गिरिषु) कॄगॄशॄपॄ०। उ० ४।१४३। इति गृणातिः स्तुतिकर्मा−निरु० ३।५। इ प्रत्ययः। स्तूयमानेषु पूज्येषु पुरुषेषु (अजायथाः) त्वमुत्पन्नोऽभवः (वीरुधाम्) विरोहणशीलानां प्रजानां मध्ये (बलवत्तमः) अतिशयेन बलवान् (कुष्ठ) हनिकुषिनी०। उ० २।२। इति कुष निष्कर्षे−क्थन्। हे निष्कर्षक। गुणपरीक्षक पुरुष (आ इहि) आगच्छ (तक्मनाशन) हे कृच्छ्रजीवननाशक (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनम् (नाशयन्) निराकुर्वन् (इतः) अस्माद् देशात् ॥

    इस भाष्य को एडिट करें
    Top