अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 9
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
उ॑त्त॒मो नाम॑ कुष्ठास्युत्त॒मो नाम॑ ते पि॒ता। यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । नाम॑ । कु॒ष्ठ॒ । अ॒सि॒ । उ॒त्ऽत॒म: । नाम॑ । ते॒ । पि॒ता । यक्ष्म॑म् । च॒ । सर्व॑म् । ना॒शय॑ । त॒क्मान॑म् । च॒ । अ॒र॒सम् । कृ॒धि॒ ॥४.९॥
स्वर रहित मन्त्र
उत्तमो नाम कुष्ठास्युत्तमो नाम ते पिता। यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥
स्वर रहित पद पाठउत्ऽतम: । नाम । कुष्ठ । असि । उत्ऽतम: । नाम । ते । पिता । यक्ष्मम् । च । सर्वम् । नाशय । तक्मानम् । च । अरसम् । कृधि ॥४.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(उत्तमः) श्रेष्ठः (नाम) स्वीकारे। अवश्यम् (कुष्ठ) म० १ हे गुणपरीक्षक राजन् (असि) (उत्तमः) श्रेष्ठः (नाम) प्रसिद्धौ (ते) तव (पिता) पालकः। जनकः (यक्ष्मम्) अ० २।१०।५। राजरोगं क्षयम् (च) (सर्वम्) (नाशय) निवारय (तक्मानम्) म० १ कृच्छ्रजीवनकरं ज्वरम् (च) (अरसम्) असमर्थम् (कृधि) कुरु ॥९॥
इस भाष्य को एडिट करें