Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - गायत्री सूक्तम् - कुष्ठतक्मनाशन सूक्त

    इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु। तमु॑ मे अग॒दं कृ॑धि ॥

    स्वर सहित पद पाठ

    इ॒मम् । मे॒ । कु॒ष्ठ॒ । पुरु॑षम् । तम् । आ । व॒ह॒ । तम् । नि: । कु॒रु॒ । तम् । ऊं॒ इति॑ । मे॒ । अ॒ग॒दम् । कृ॒धि॒ ॥४.६॥


    स्वर रहित मन्त्र

    इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु। तमु मे अगदं कृधि ॥

    स्वर रहित पद पाठ

    इमम् । मे । कुष्ठ । पुरुषम् । तम् । आ । वह । तम् । नि: । कुरु । तम् । ऊं इति । मे । अगदम् । कृधि ॥४.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 6

    टिप्पणीः - ६−(इमम्) दृश्यमानम् (मे) मम (कुष्ठ) म० १। हे गुणपरीक्षक पुरुष (पुरुषम्) अ० १।१६।४। पुरुषम्। जनम् (तम्) तर्द। हिंसायाम्−ड हिंसितम् (आ वह) आनय (तम्) पूर्वोक्तम् (निष्कुरु) बहिष्कुरु। उद्धर (तम्) (उ) एव (अगदम्) गद कथने रोगे च−अच्। अरोगम् (कृधि) कुरु ॥

    इस भाष्य को एडिट करें
    Top