Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - उष्णिग्गर्भा निचृदनुष्टुप् सूक्तम् - कुष्ठतक्मनाशन सूक्त

    शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥

    स्वर सहित पद पाठ

    शी॒र्ष॒ऽआ॒म॒यम् । उ॒प॒ऽह॒त्याम् । अ॒क्ष्यो: । त॒न्व᳡: । रप॑: । कुष्ठ॑: । तत् । सर्व॑म् । नि: । क॒र॒त् । दैव॑म् । स॒म॒ह॒ । वृष्ण्य॑म् ॥४.१०॥


    स्वर रहित मन्त्र

    शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः। कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥

    स्वर रहित पद पाठ

    शीर्षऽआमयम् । उपऽहत्याम् । अक्ष्यो: । तन्व: । रप: । कुष्ठ: । तत् । सर्वम् । नि: । करत् । दैवम् । समह । वृष्ण्यम् ॥४.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 10

    टिप्पणीः - १–०−(शीर्षामयम्) बलिमलितनिभ्यः कयन्। उ० ४।९९। इति आङ्+अम रोगे−कयन्, यद्वा मीञ् हिंसायाम्−पचाद्यच्। शिरोरोगम् (उपहत्याम्) हनस्त च। पा० ३।१।१०८। इति उप+हन−क्यप्, नस्य तः। उपहानिमुपद्रवम् (अक्ष्योः) अक्ष्णोः। नेत्रयोः (तन्वः) तन्वाः। शरीरस्य (रपः) दोषम् (कुष्ठः) गुणपरीक्षकः पुरुषः (तत्) (सर्वम्) (निष्करत्) बहिष्कुर्यात् (दैवम्) दिव्यगुणविशिष्टम् (समह) मह पूजायाम्−पचाद्यच्। हे महेन सत्कारेण सह वर्तमान ! (वृष्ण्यम्) अ० ४।४।४। वृष्णे इन्द्राय जीवाय हितम्। बलम्। तव सामर्थ्यमस्ति ॥

    इस भाष्य को एडिट करें
    Top