अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
सु॑पर्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑। धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ॥
स्वर सहित पद पाठसु॒प॒र्ण॒ऽसुव॑ने । गि॒रौ । जा॒तम् । हि॒मऽव॑त: । परि॑ । धनै॑: । अ॒भि । श्रु॒त्वा । य॒न्ति॒ । वि॒दु: । हि । त॒क्म॒ऽनाश॑नम् ॥४.२॥
स्वर रहित मन्त्र
सुपर्णसुवने गिरौ जातं हिमवतस्परि। धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥
स्वर रहित पद पाठसुपर्णऽसुवने । गिरौ । जातम् । हिमऽवत: । परि । धनै: । अभि । श्रुत्वा । यन्ति । विदु: । हि । तक्मऽनाशनम् ॥४.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सुपर्णसुवने) धापॄवस्य०। उ० ३।६। इति पॄ पालनपूरणयोः−न। भूसूधू०। उ० २।८०। इति पू प्रेरणे, यद्वा षूङ् प्राणिप्रसवे−क्युन्। उत्तमपालनस्योत्पादके (गिरौ) म० १। पूज्ये कुले (जातम्) उत्पन्नम् (हिमवतः) हन्तेर्हि च। उ० १।१४७। इति हन हिंसागत्योः−मक्। गतिमतः। उद्योगिनः पुरुषात् (परि) पूजायाम्। सुष्ठु (धनैः) धनैः सह वर्त्तमानम् (अभि) आभिमुख्येन (श्रुत्वा) आकर्ण्य (यन्ति) गच्छन्ति विद्वांसः (विदुः) जानन्ति (हि) निश्चयेन (तक्मनाशनम्) कृच्छ्रजीवननाशकम् ॥
इस भाष्य को एडिट करें