अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 10
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु। सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
स्वर सहित पद पाठअग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ । सम् । जा॒:ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒यऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥७७.१०॥
स्वर रहित मन्त्र
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु। सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥
स्वर रहित पद पाठअग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । सन्तु । सम् । जा:ऽपत्यम् । सुऽयमम् । आ । कृणुष्व । शत्रुयऽयताम् । अभि । तिष्ठ । महांसि ॥७७.१०॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(अग्ने) विद्वन् राजन् (शर्ध) शृधु उन्दे उत्साहे वा-पचाद्यच्। बलवन्। शर्धः=बलम्-निघ० २।९। (महते) प्रभूताय (सौभगाय) शोभनैश्वर्याय (तव) (द्युम्नानि) अ० ६।३५।३। धनानि यशांसि वा (उत्तमानि) उद्गततमानि। उन्नततमानि (सन्तु) (सम्) सम्यक् (जास्पत्यम्) पत्यन्तपुरोहितादिभ्यो यक्। पा० ५।१।१२८। जायापति-यक्, छान्दसो या शब्दलोपः सुडागमश्च। जायापत्यम्। पत्नीपतिधर्मं (सुयमम्) ईषद्दुःसुषु०। पा० ३।३।१२६। इति खल्। जितेन्द्रियत्वादिनियमयुक्तम् (आ) समन्तात् (कृणुष्व) कुरु (शत्रूयताम्) शत्रुवदाचरताम् (अभि तिष्ठ) आक्रमस्व। अभिभव (महांसि) तेजांसि। बलानि ॥
इस भाष्य को एडिट करें