Loading...
अथर्ववेद > काण्ड 7 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 4
    सूक्त - अथर्वा देवता - घर्मः, अश्विनौ छन्दः - जगती सूक्तम् - धर्म सूक्त

    यदु॒स्रिया॒स्वाहु॑तं घृ॒तं पयो॒ऽयं स वा॑मश्विना भा॒ग आ ग॑तम्। माध्वी॑ धर्तारा विदथस्य सत्पती त॒प्तं घ॒र्मं पि॑बतं रोचने दि॒वः ॥

    स्वर सहित पद पाठ

    यत् । उ॒स्रिया॑सु । आऽहु॑तम् । घृ॒तम् । पय॑: । अ॒यम् । स: । वा॒म् । अ॒श्वि॒ना॒ । भा॒ग: । आ । ग॒त॒म् । माध्वी॒ इति॑ । ध॒र्ता॒रा॒ । वि॒द॒थ॒स्य॒ । स॒त्प॒ती॒ इति॑ सत्ऽपती । त॒प्तम् । घ॒र्मम् । पि॒ब॒त॒म् । रो॒च॒ने । दि॒व: ॥७७.४॥


    स्वर रहित मन्त्र

    यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम्। माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिवः ॥

    स्वर रहित पद पाठ

    यत् । उस्रियासु । आऽहुतम् । घृतम् । पय: । अयम् । स: । वाम् । अश्विना । भाग: । आ । गतम् । माध्वी इति । धर्तारा । विदथस्य । सत्पती इति सत्ऽपती । तप्तम् । घर्मम् । पिबतम् । रोचने । दिव: ॥७७.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 4

    टिप्पणीः - ४−(यत्) यथा (उस्रियासु) अ० ४।२६।५। गोषु (आहुतम्) सम्यग् दत्तम् (घृतम्) (पयः) दुग्धम् (अयम्) (सः) (वाम्) युवयोः (अश्विना) उत्तमस्त्री-पुरुषौ (भागः) सेवनीयो व्यवहारः (आ गतम्) आगच्छतम् (माध्वी) मधु+ई गतौ-क्विप्, छान्दसो दीर्घः। सुपां सुलुक्पूर्वसवर्णा०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। मधु मधुविद्यां वेदविद्यामीयेते जानीतो मध्व्यौ मधुविद्यावेदितारौ (धर्तारा) धारकौ (विदथस्य) अ० १।१३।४। ज्ञातव्यस्य कर्मणः (सत्पती) सज्जनानां पालकौ (तप्तम्) ऐश्वर्ययुक्तम् (घर्मम्) प्रकाशमानं घर्मम् (पिबतम्) स्वीकुरुतम् (रोचने) प्रकाशे (दिवः) सूर्यस्य ॥

    इस भाष्य को एडिट करें
    Top