अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 8
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒ न्याग॑न्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठहि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । नि॒ऽआग॑न् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑: । अ॒घ्न्या । इ॒यम्। सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥७७.८॥
स्वर रहित मन्त्र
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन्। दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
स्वर रहित पद पाठहिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । निऽआगन् । दुहाम् । अश्विऽभ्याम् । पय: । अघ्न्या । इयम्। सा । वर्धताम् । महते । सौभगाय ॥७७.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(हिङ्कृण्वती) हि गतिवृद्ध्योः−डि। गतिं वृद्धिं वा कुर्वती (वसुपत्नी) धनां पालिका (वसूनाम्) श्रेष्ठानां मध्ये (वत्सम्) अ० ३।१२।३। वद कथने-स प्रत्ययः। उपदेशकम् (इच्छन्ती) कामयमाना (मनसा) विज्ञानेन (न्यागन्) गमेर्लुङि रूपम्। निश्चयेनागतवती (दुहाम्) दुर्हुलोटि, आत्मनेपदम्, तलोपः। दुग्धाम्। प्रपूरयेत्। (अश्विभ्याम्) स्त्रीपुरुषयोर्हिताय (पयः) विज्ञानम् (अघ्न्या) अ० ३।३०।१। अहिंसिका वेदविद्या (इयम्) प्रसिद्धा (सा) (वर्धताम्) समृद्धा भवतु (महते) प्रभूताय (सौभगाय) शौभनैश्वर्य्याणां भावाय ॥
इस भाष्य को एडिट करें