अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 5
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ॥
स्वर सहित पद पाठत॒प्त: । वा॒म् । ध॒र्म: । न॒क्ष॒तु॒ । स्वऽहो॑ता । प्र । वा॒म् । अ॒ध्व॒र्यु: । च॒र॒तु॒ । पय॑स्वान् । मधो॑: । दु॒ग्धस्य॑ । अ॒श्वि॒ना॒ । त॒नाया॑: । वी॒तम् । पा॒तम् । पय॑स: । उ॒स्रिया॑या: ॥७७.५॥
स्वर रहित मन्त्र
तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान्। मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥
स्वर रहित पद पाठतप्त: । वाम् । धर्म: । नक्षतु । स्वऽहोता । प्र । वाम् । अध्वर्यु: । चरतु । पयस्वान् । मधो: । दुग्धस्य । अश्विना । तनाया: । वीतम् । पातम् । पयस: । उस्रियाया: ॥७७.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(तप्तः) ऐश्वर्ययुक्तः (वाम्) युवाम् (घर्मः) प्रकाशमानो घर्मः (नक्षतु) व्याप्नोतु-निघ० २।१८। (स्वहोता) धनदाता (वाम्) युवाभ्याम् (अध्वर्युः) मृगय्वादयश्च। उ० १, ३७। अध्वर+या प्रापणे-कु। अथवा सुप आत्मनः क्यच्। पा० ३।१।८। अध्वर-क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः, अलोपः। अहिंसाप्रापकः। अहिंसामिच्छुः। याजकः (प्रचरतु) प्रचरितो भवति (पयस्वान्) ज्ञानवान् (मधोः) मधुनः। मधुविद्यायाः (दुग्धस्य) प्रपूरितस्य (अश्विना) हे उत्तमस्त्रीपुरुषौ (तनायाः) तनु विस्तारे, तन उपकारे-पचाद्यच्, टाप्। उपकारिकाया विद्यायाः (वीतम्) प्राप्तिं कुरुतम् (पातम्) रक्षां कुरुतम् (पयसः) दुग्धस्य (उस्रियायाः) धेनोः ॥
इस भाष्य को एडिट करें