Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 7
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - विराड्गायत्री सूक्तम् - विराट् सूक्त

    तां वसु॑रुचिः सौर्यवर्च॒सोधो॒क्तां पुण्य॑मे॒व ग॒न्धम॑धोक्।

    स्वर सहित पद पाठ

    ताम् । वसु॑ऽरुचि: । सौ॒र्य॒ऽव॒र्च॒स: । अ॒धो॒क् । ताम् । पुण्य॑म् । ए॒व । ग॒न्धम् । अ॒धो॒क् ॥१४.७॥


    स्वर रहित मन्त्र

    तां वसुरुचिः सौर्यवर्चसोधोक्तां पुण्यमेव गन्धमधोक्।

    स्वर रहित पद पाठ

    ताम् । वसुऽरुचि: । सौर्यऽवर्चस: । अधोक् । ताम् । पुण्यम् । एव । गन्धम् । अधोक् ॥१४.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 7

    टिप्पणीः - ७−(ताम्) विराजम् (वसुरुचिः) वसौ सर्वनिवासे जगदीश्वरे रुचिः प्रीतिर्यस्य स जीवः (गन्धम्) गन्ध गतिहिंसायाचनेषु-अच्। बोधम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top