Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 11
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - विराड्गायत्री सूक्तम् - विराट् सूक्त

    तां र॑ज॒तना॑भिः काबेर॒कोधो॒क्तां ति॑रो॒धामे॒वाधो॑क्।

    स्वर सहित पद पाठ

    ताम् । र॒ज॒तऽना॑भि: । का॒बे॒र॒क: । अ॒धो॒क् । ताम् । ति॒र॒:ऽधाम् । ए॒व । अ॒धो॒क् ॥१४.११॥


    स्वर रहित मन्त्र

    तां रजतनाभिः काबेरकोधोक्तां तिरोधामेवाधोक्।

    स्वर रहित पद पाठ

    ताम् । रजतऽनाभि: । काबेरक: । अधोक् । ताम् । तिर:ऽधाम् । एव । अधोक् ॥१४.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 11

    टिप्पणीः - ११−(ताम्) विराजम् (रजतनाभिः) पृषिरञ्जिभ्यां कित्। उ० ३।१११। रजति गतिकर्मा-निघ–० २।१४। अतच्। नहो भश्च। उ० ४।१२६। णह बन्धने-इञ्, हस्य भः। नाभिः सन्नहनान्नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुरेतस्मादेव ज्ञातीन् सनाभय इत्याचक्षते सबन्धव इति च-निरु० ४।२१। गतेर्ज्ञानस्य प्रबन्धकः क्षत्रियो वा (काबेरकः) पतिकठिकुठि०। उ० १।५८ कबृ स्तुतौ वर्णे च-एरक्, यद्वा कवते गतिकर्मा-निघ० २।४। एरक्। वुञ्छण्कठ०। पा० ४।२।८०। कवेर-वुञ्। तस्य निवासः। पा० ४।२।६८। इत्यर्थे। कवेराणां स्तुत्यगुणानां निवासः (तिरोधाम्) म० ९। अन्तर्धानशक्तिम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top