अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 15
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - विराट् सूक्त
तां धृ॒तरा॑ष्ट्र ऐराव॒तोधो॒क्तां वि॒षमे॒वाधो॑क्।
स्वर सहित पद पाठताम् । धृ॒तऽरा॑ष्ट्र: । ऐ॒रा॒ऽव॒त: । अ॒धो॒क् । ताम् । वि॒षम् । ए॒व । अ॒धो॒क् ॥१४.१५॥
स्वर रहित मन्त्र
तां धृतराष्ट्र ऐरावतोधोक्तां विषमेवाधोक्।
स्वर रहित पद पाठताम् । धृतऽराष्ट्र: । ऐराऽवत: । अधोक् । ताम् । विषम् । एव । अधोक् ॥१४.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(ताम्) विराजम् (धृतराष्ट्रः) धृतं राष्ट्रं येन। राज्यधारकः (ऐरावतः) ऋज्रेन्द्राग्र०। उ० २।२८। इण् गतौ−रन् निपात्यते। इरा मतुप्। तदधीते तद्वेद। पा० ४।२।५९। इरावत्-अण्। इरावतां भूमिवतां स्वभाववेत्ता (विषम्) अ० ४।६।१। शरीरनाशकं द्रव्यम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें