Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 2
    सूक्त - अथर्वा देवता - वीरुधः छन्दः - विराड्जगती सूक्तम् - वृष्टि सूक्त

    समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥

    स्वर सहित पद पाठ

    सम् । ई॒क्ष॒य॒न्तु॒ । त॒वि॒षा: । सु॒ऽदान॑व: । अ॒पाम् । रसा॑: । ओष॑धीभि: । स॒च॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । ओष॑धय: । वि॒श्वऽरू॑पा: ॥१५.२॥


    स्वर रहित मन्त्र

    समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥

    स्वर रहित पद पाठ

    सम् । ईक्षयन्तु । तविषा: । सुऽदानव: । अपाम् । रसा: । ओषधीभि: । सचन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । ओषधय: । विश्वऽरूपा: ॥१५.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 2

    भावार्थ -
    (तविषाः) महान् (सुदानवः) उत्तम जलों का दान करने वाले मेघ (समीक्षयन्तु) हमें उत्तम रीति से जलधाराओं के दर्शन करावें या बरस कर दिखावें। और (अपां रसाः) जलों की धाराएं (औषधीभिः) अन्नादि ओषधियों को (सचन्ताम्) प्राप्त हों। (वर्धन्य सर्गः) वर्षाकाल की नाना वनस्पति और जीवसृष्टियां या जलधाराएं (भूमिं) इस भूमि को (महयन्तु) सुशोभित करें। और (विश्वरूपाः) नाना प्रकार की (ओषधयः) ओषधियां (पृथक्) नाना स्थानों पर नाना, जातियों में (जायन्ताम्) उत्पन्न हों।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मरुतः पर्जन्यश्च देवताः। १, २, ५ विराड् जगत्याः। ४ विराट् पुरस्ताद् वृहती । ७, ८, १३, १४ अनुष्टुभः। ९ पथ्या पंक्तिः। १० भुरिजः। १२ पञ्चपदा अनुष्टुप् गर्भा भुरिक्। १५ शङ्कुमती अनुष्टुप्। ३, ६, ११, १६ त्रिष्टुभः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top