अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 13
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्। यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ॥
स्वर सहित पद पाठदे॒व॒ऽपी॒यु: । च॒र॒ति॒ । मर्त्ये॑षु । ग॒र॒ऽगी॒र्ण: । भ॒व॒ति॒ । अस्थि॑ऽभूयान् । य: । ब्र॒ह्मा॒णम् । दे॒वऽब॑न्धुम् । हि॒नस्ति॑ । न । स: । पि॒तृ॒ऽयान॑म् । अपि॑ । ए॒ति॒ । लो॒कम् ॥१८.१३॥
स्वर रहित मन्त्र
देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान्। यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥
स्वर रहित पद पाठदेवऽपीयु: । चरति । मर्त्येषु । गरऽगीर्ण: । भवति । अस्थिऽभूयान् । य: । ब्रह्माणम् । देवऽबन्धुम् । हिनस्ति । न । स: । पितृऽयानम् । अपि । एति । लोकम् ॥१८.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 13
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
(देव-पीयुः) विद्वान् पुरुषों को सताने वाला पुरुष (मर्त्येषु) मनुष्यों के बीच में (गर-गीर्णः चरति) मानो ज़हर पिये घूमता है। (अस्थिभूयान् भवति) केवल बड़े २ हाड़ उठाये रहता है। (यः) जो (देवबन्धुम्) देव-विद्वान् और ईश्वर की दिव्य शक्तियों या ईश्वर को बन्धु मानने वाले (ब्राह्मणम्) ब्रह्मज्ञ, ब्राह्मण को (हिनस्ति) पीड़ा देता है (सः) वह (पितृयाणम् लोकम् अपि) पितृयाण लोक को भी (न एति) प्राप्त नहीं होता।
टिप्पणी -
दो यान हैं—देवयान और पितृयाण।
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मगवी देवता। १-३, ६, ७, १०, १२, १४, १५ अनुष्टुभः। ४, ५, ८, ९, १३ त्रिष्टुभः। ४ भुरिक्। पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें