अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 50
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्षभिद्याय वि॒द्वान्। सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥
स्वर सहित पद पाठअ॒पाम् । अ॒स्मै॒ । वज्र॑म् । प्र । ह॒रा॒मि॒ । चतु॑:ऽभृष्टिम् । शी॒र्ष॒ऽभिद्या॑य । वि॒द्वान् । स: । अ॒स्य॒ । अङ्गा॑नि । प्र । शृ॒णा॒तु॒ । सर्वा॑ । तत् । मे॒ । दे॒वा: । अनु॑ । जा॒न॒न्तु॒ । विश्वे॑ ॥५.५०॥
स्वर रहित मन्त्र
अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान्। सो अस्याङ्गानि प्र शृणातु सर्वा तन्मे देवा अनु जानन्तु विश्वे ॥
स्वर रहित पद पाठअपाम् । अस्मै । वज्रम् । प्र । हरामि । चतु:ऽभृष्टिम् । शीर्षऽभिद्याय । विद्वान् । स: । अस्य । अङ्गानि । प्र । शृणातु । सर्वा । तत् । मे । देवा: । अनु । जानन्तु । विश्वे ॥५.५०॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 50
विषय - विजिगीषु राजा के प्रति प्रजा के कर्त्तव्य।
भावार्थ -
मैं (विद्वान्) ज्ञानी इसके अपराध को जानता हुआ (अस्मै) इसके लिये (अपाम्) आप्तजनों के बनाये (चतुर्भृष्टिम्) चारों ओर से संतापकारक (वज्रम्) पाप से निवारक दण्ड को इसके (शीर्ष-भिद्या), शिर तोड़ने के लिये (प्र हरामि) प्रहार करता हूं। (स) वह वज्र (अस्य) इस अपराधी के (अङ्गानि) अंगों को (प्र शृणातु) अच्छी प्रकार नाश करे। (तत्) मेरे इस कार्य की (विश्वे-देवाः) सब विद्वान् पुरुष (अनुजानन्तु) अनुज्ञा दें। राजा इस प्रकार अपराधियों के दण्ड की विद्वान् पुरुषों से अनुमति लेकर दण्ड प्रदान किया करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-२४ सिन्धुद्वीप ऋषिः। २६-३६ कौशिक ऋषिः। ३७-४० ब्रह्मा ऋषिः। ४२-५० विहव्यः प्रजापतिर्देवता। १-१४, २२-२४ आपश्चन्द्रमाश्च देवताः। १५-२१ मन्त्रोक्ताः देवताः। २६-३६ विष्णुक्रमे प्रतिमन्त्रोक्ता वा देवताः। ३७-५० प्रतिमन्त्रोक्ताः देवताः। १-५ त्रिपदाः पुरोऽभिकृतयः ककुम्मतीगर्भा: पंक्तयः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१०, १२, १३ त्र्यवसानाः पञ्चपदा विपरीतपादलक्ष्मा बृहत्यः, ११, १४ पथ्या बृहती, १५-१८, २१ चतुरवसाना दशपदा त्रैष्टुव् गर्भा अतिधृतयः, १९, २० कृती, २४ त्रिपदा विराड् गायत्री, २२, २३ अनुष्टुभौ, २६-३५ त्र्यवसानाः षट्पदा यथाक्ष शकर्योऽतिशक्वर्यश्च, ३६ पञ्चपदा अतिशाक्कर-अतिजागतगर्भा अष्टिः, ३७ विराट् पुरस्ताद् बृहती, ३८ पुरोष्णिक्, ३९, ४१ आर्षी गायत्र्यौ, ४० विराड् विषमा गायत्री, ४२, ४३, ४५-४८ अनुष्टुभः, ४४ त्रिपाद् गायत्री गर्भा अनुष्टुप्, ५० अनुष्टुप्। पञ्चशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें