Loading...
अथर्ववेद > काण्ड 15 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 11
    सूक्त - रुद्र देवता - द्विपदा प्राजापत्या अनुष्टुप्, निचृद् ब्राह्मी गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    रु॒द्रए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑श॒र्वो न॑ भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    रु॒द्र: । ए॒न॒म् । इ॒षु॒ऽआ॒स: । ध्रु॒वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्व: । न । भ॒व: । न । ईशा॑न: । न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.११॥


    स्वर रहित मन्त्र

    रुद्रएनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनंशर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद ॥

    स्वर रहित पद पाठ

    रुद्र: । एनम् । इषुऽआस: । ध्रुवाया: । दिश: । अन्त:ऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्व: । न । भव: । न । ईशान: । न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 11

    भावार्थ -
    (धुवायाः दिशः ग्रन्तर्देशात्) ध्रुवा= नीचे की दिशा के भीतरी देश से (तस्मै) उसके लिये (रुद्रम् इष्वासम् अनुष्ठातारम् अकुर्वन्) रुद्र धनुर्धर को उसका भृत्य कल्पित किया। (यः एवं वेद) जो इस प्रकार के व्रात्य प्रजापति के स्वरूप को साक्षात् करता है (एनं रुद्रः इष्वासः) उसको रूद्र धनुर्धर (ध्रुवायाः दिशः) ध्रुवा दिशा के (अन्तः देशात् अनुष्ठाता अनुतिष्ठति नास्य यः० इत्यादि) भीतरी प्रदेश से उसकी सेवा करता है इत्यादि पूर्ववत्।

    ऋषि | देवता | छन्द | स्वर - रुद्रगणसूक्तम्। मन्त्रोक्तो रुद्रो देवता। १ प्र० त्रिपदा समविषमा गायत्री, १ द्वि० त्रिपदा भुरिक् आर्ची त्रिष्टुप्, १-७ तृ० द्विपदा प्राजापत्यानुष्टुप्, २ प्र० त्रिपदा स्वराट् प्राजापत्या पंक्तिः, २-४ द्वि०, ६ त्रिपदा ब्राह्मी गायत्री, ३, ४, ६ प्र० त्रिपदा ककुभः, ५ ७ प्र० भुरिग् विषमागायत्र्यौ, ५ द्वि० निचृद् ब्राह्मी गायत्री, ७ द्वि० विराट्। षोडशर्चं पञ्चमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top