अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 9
सूक्त - रुद्र
देवता - द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒सउदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒नैनं॑ श॒र्वो न भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठउ॒ग्र: । ए॒न॒म् । दे॒व: । इ॒षु॒ऽआ॒स: । उदी॑च्या: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्व: । न । भ॒व: । न । ईशा॑न: । न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.९॥
स्वर रहित मन्त्र
उग्र एनं देव इष्वासउदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठतिनैनं शर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद॥
स्वर रहित पद पाठउग्र: । एनम् । देव: । इषुऽआस: । उदीच्या: । दिश: । अन्त:ऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्व: । न । भव: । न । ईशान: । न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 9
विषय - व्रात्य प्रजापति का राज्यतन्त्र।
भावार्थ -
(तस्मै उदीच्याः दिशः इत्यादि) उत्तर दिशा से धनुर्धर उग्रदेव को उसका भृत्य कल्पित करते हैं। (य एवं वेद इत्यादि०) जो इस प्रकार के व्रात्य प्रजापति के स्वरूप को साक्षात् करता है (उग्रः देवः इष्वासः एनं उदीच्या० इत्यादि) उग्र देव, धनुर्धर उसको उत्तर दिशा के भीतरी देश से सेवा करता है। इत्यादि पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - रुद्रगणसूक्तम्। मन्त्रोक्तो रुद्रो देवता। १ प्र० त्रिपदा समविषमा गायत्री, १ द्वि० त्रिपदा भुरिक् आर्ची त्रिष्टुप्, १-७ तृ० द्विपदा प्राजापत्यानुष्टुप्, २ प्र० त्रिपदा स्वराट् प्राजापत्या पंक्तिः, २-४ द्वि०, ६ त्रिपदा ब्राह्मी गायत्री, ३, ४, ६ प्र० त्रिपदा ककुभः, ५ ७ प्र० भुरिग् विषमागायत्र्यौ, ५ द्वि० निचृद् ब्राह्मी गायत्री, ७ द्वि० विराट्। षोडशर्चं पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें