अथर्ववेद - काण्ड 19/ सूक्त 46/ मन्त्र 3
सूक्त - प्रजापतिः
देवता - अस्तृतमणिः
छन्दः - पञ्चपदा पथ्यापङ्क्तिः
सूक्तम् - अस्तृतमणि सूक्त
श॒तं च॑ न प्र॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे। तस्मि॒न्निन्द्रः॒ पर्य॑दत्त॒ चक्षुः॑ प्रा॒णमथो॒ बल॒मस्तृ॑तस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठश॒तम्। च॒। न। प्र॒ऽहर॑न्तः। नि॒ऽघ्नन्तः॑। न। त॒स्ति॒रे। तस्मि॑न्। इन्द्रः॑। परि॑। अ॒द॒त्त॒। चक्षुः॑। प्रा॒णम्। अथो॒ इति॑। बल॑म्। अस्तृ॑तः। त्वा॒। अ॒भि। र॒क्ष॒तु॒ ॥४६.३॥
स्वर रहित मन्त्र
शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे। तस्मिन्निन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठशतम्। च। न। प्रऽहरन्तः। निऽघ्नन्तः। न। तस्तिरे। तस्मिन्। इन्द्रः। परि। अदत्त। चक्षुः। प्राणम्। अथो इति। बलम्। अस्तृतः। त्वा। अभि। रक्षतु ॥४६.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 46; मन्त्र » 3
विषय - अस्तृन नाम वीर पुरुष की नियुक्ति।
भावार्थ -
(शतं चन) सैकड़ों आदमी भी एक ही समय में (प्रहरन्तः) प्रहार करते हुए और (निघ्नन्तः च) मारते हुए भी उसके मुकाबले में (न तस्तिरे=तस्थिरे) सर्वथा भी न ठहर सकें। (तस्मिन्) ऐसे वीर्यवान् पुरुष में (इन्द्रः) ऐश्वर्यवान् राजा अपना (चक्षुः) चक्षु अर्थात् निरीक्षण और (प्राणम्) अपनी प्राणरक्षा का कार्य और (बलम्) समस्त बल, सेना समूह (परि अदत्त) सौंप देता है। हे राजन् ! वह (अस्तृतः) अहिंसनीय, पुरुष (त्वा अभि रक्षतु) तेरी रक्षा करे।
टिप्पणी -
(प्र० द्वि०) ‘चन’ इत्येकं पदम्। ‘विघ्नन्तः’ इति प्रायः। ‘विघ्नन्तो यं न’ इति ह्विटनिकामितः। ‘तस्थिरे’ ‘निरस्तिरे’। इति क्वचित्। ‘तस्त्रिरे’ इति ह्विटनिकामितः। ‘तस्तरि’ इति सायणाभिमतः। (तृ०) ‘पर्यदन्त’, ‘पर्यदन्तश्च’ इति क्वचित्। ‘परि यद् अन्तश्चक्षुः’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्ऋषिः। अस्तृतमणिर्देवता। १ पञ्चपदा मध्येज्योतिष्मती त्रिष्टुप्। २ षट्पदा भुरिक् शक्करी। ३, ७ पञ्चपदे पथ्यापंक्ती। १। ४ चतुष्पदा। ५ पञ्चपदा च अतिजगत्यौ। ६ पञ्चपदा उष्णिग्गर्भा विराड् जगती। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें