Loading...
ऋग्वेद मण्डल - 1 के सूक्त 167 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 167/ मन्त्र 6
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - इन्द्रो मरुच्च छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम्। अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

    स्वर सहित पद पाठ

    आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् । अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥


    स्वर रहित मन्त्र

    आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम्। अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥

    स्वर रहित पद पाठ

    आ। अस्थापयन्त। युवतिम्। युवानः। शुभे। निऽमिश्लाम्। विदथेषु। पज्राम्। अर्कः। यत्। वः। मरुतः। हविष्मान्। गायत्। गाथम्। सुतऽसोमः। दुवस्यन् ॥ १.१६७.६

    ऋग्वेद - मण्डल » 1; सूक्त » 167; मन्त्र » 6
    अष्टक » 2; अध्याय » 4; वर्ग » 5; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह ।

    अन्वयः

    हे मरुतो युवानो भवन्तो शुभे निमिश्लां विदथेषु पज्रां युवतिमास्थापयन्त। यद्वोऽर्कोऽन्नं तदास्थापयन्त यो हविष्मान् सुतसोमो गायत् स गायं दुवस्यन् सततमानन्देत् ॥ ६ ॥

    पदार्थः

    (आ) समन्तात् (अस्थापयन्त) (युवतिम्) यौवनाऽवस्थां प्राप्ताम् (युवानः) यौवनावस्थास्थाः (शुभे) शुभगुणकर्मस्वभावग्रहणाय (निमिश्लाम्) नितरां पूर्णविद्यासुशिक्षायुक्ताम् (विदथेषु) धर्म्येषु व्यवहारेषु (पज्राम्) गन्त्रीम् (अर्कः) अर्चनीयमन्नम्। अर्क इत्यन्नना०। निघं० २। ७। (यत्) यः (वः) युष्माकम् (मरुतः) विद्यायुक्ताः प्राणवत् प्रियाः सज्जनाः (हविष्मान्) आदत्तबहुविद्यः (गायत्) स्तुयात्। अत्राडभावः। (गाथम्) प्रशंसनीयमुपदेशम् (सुतसोमः) सुतः सोम ऐश्वर्यं येन (दुवस्यन्) परिचरन् ॥ ६ ॥

    भावार्थः

    सर्वेषां राजपुरुषादीनामत्यन्तं योग्यमस्ति स्वकन्याः पुत्राँश्च दीर्घे ब्रह्मचर्ये संस्थाप्य विद्यासुशिक्षे संग्राह्य पूर्णविद्यानां परस्परं प्रसन्नानां स्वयंवरं विवाहं कारयेयुर्यतो यावज्जीवनं तावदानन्दिताः स्युः ॥ ६ ॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है ।

    पदार्थ

    हे (मरुतः) विद्यायुक्त प्राण के समान प्रिय सज्जनो ! (युवानः) यौवनावस्था को प्राप्त आप (शुभे) शुभ, गुण, कर्म और स्वभाव ग्रहण करने के लिये (निमिश्लाम्) निरन्तर पूर्ण विद्या और सुशिक्षायुक्त और (विदथेषु) धर्मयुक्त व्यवहारों में (पज्राम्) जानेवाली (युवतिम्) युवती स्त्री को (आ, अस्थापयन्त) अच्छे प्रकार स्थापित करते और (यत्) जो (वः) तुम्हारा (अर्कः) सत्कार करने योग्य अन्न है उसको अच्छे प्रकार स्थापित करते हो। तथा जो (हविष्मान्) बहुत विद्यावान् (सुतसोमः) जिसने ऐश्वर्य उत्पन्न किया और (गायत्) स्तुति करे वह (गाथम्) प्रशंसनीय उपदेश को (दुवस्यन्) सेवता हुआ निरन्तर आनन्द करे ॥ ६ ॥

    भावार्थ

    सब राजपुरुषादिकों को अत्यन्त योग्य है कि अपने कन्या और पुत्रों को दीर्घ ब्रह्मचर्य में संस्थापित कर विद्या और उत्तम शिक्षा उनको ग्रहण करा पूर्ण विद्यावाले परस्पर प्रसन्न पुत्र कन्याओं का स्वयंवर विवाह करावें, जिससे जब तक जीवन रहे, तब तक आनन्दित रहें ॥ ६ ॥

    मराठी (1)

    भावार्थ

    सर्व राजपुरुषांनी आपल्या कन्या व पुत्र यांना दीर्घ ब्रह्मचर्य पालन करण्यास लावावे. त्यांना विद्या व उत्तम शिक्षण द्यावे. पूर्ण विद्यायुक्त झाल्यावर परस्पर प्रसन्न असलेल्यांचा स्वयंवर विवाह करावा व जोपर्यंत जीवन असेल तोपर्यंत आनंदाने राहावे. ॥ ६ ॥

    इंग्लिश (1)

    Meaning

    When the worshipper, rich in yajnic offerings, having distilled the soma, sings songs of praise zealously in honour of you, then, O Maruts, youthful powers of nature’s brilliance and force, you give him in marriage a young maiden, smart and dynamic, dedicated to yajnas, and a harbinger of happiness and bliss in life.

    Top