अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 22
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः। केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ॥
स्वर सहित पद पाठकेन॑ । दे॒वान् । अनु॑ । क्षि॒य॒ति॒ । केन॑ । दैव॑ऽजना: । विश॑: । केन॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् । केन॑ । सत् । क्ष॒त्रम् । उ॒च्य॒ते॒ ॥२.२२॥
स्वर रहित मन्त्र
केन देवाँ अनु क्षियति केन दैवजनीर्विशः। केनेदमन्यन्नक्षत्रं केन सत्क्षत्रमुच्यते ॥
स्वर रहित पद पाठकेन । देवान् । अनु । क्षियति । केन । दैवऽजना: । विश: । केन । इदम् । अन्यत् । नक्षत्रम् । केन । सत् । क्षत्रम् । उच्यते ॥२.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 22
Translation -
Through which power the men brings under his control the marvelous powers, through which power he contacts the celestial bodies, why is this other body called star and why is this present world is called powerful.