अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 11
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - जगती
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्। तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥
स्वर सहित पद पाठयत् । एज॑ति । पत॑ति । यत् । च॒ । तिष्ठ॑ति । प्रा॒णत् । अप्रा॑णत् । नि॒ऽमि॒षत् । च॒ । यत् । भुव॑त् । तत् । दा॒धा॒र॒ । पृ॒थि॒वीम् । वि॒श्वऽरू॑पम् । तत् । स॒म्ऽभूय॑ । भ॒व॒ति॒ । एक॑म् । ए॒व ॥८.११॥
स्वर रहित मन्त्र
यदेजति पतति यच्च तिष्ठति प्राणदप्राणन्निमिषच्च यद्भुवत्। तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥
स्वर रहित पद पाठयत् । एजति । पतति । यत् । च । तिष्ठति । प्राणत् । अप्राणत् । निऽमिषत् । च । यत् । भुवत् । तत् । दाधार । पृथिवीम् । विश्वऽरूपम् । तत् । सम्ऽभूय । भवति । एकम् । एव ॥८.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 11
Translation -
That which moves, that which flies, that which stands, that which breaths and breaths not and that which existing shuts the eye, upholds the entity which wearing all forms of the world upholds the earth and everything becomes one consistent whole the matter with souls in him in the time of dissolution.