अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 39
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः। यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वेवासीन्मात॒रिश्वा॑ त॒दानी॑म् ॥
स्वर सहित पद पाठयत् । अ॒न्त॒रा । द्या॑वाथि॒वी इति॑ । अ॒ग्नि: । ऐत् । प्र॒ऽदह॑न् । वि॒श्व॒ऽदा॒व्य᳡:। यत्र॑ । अति॑ष्ठन् । एक॑ऽपत्नी: । प॒रस्ता॑त् । क्व᳡ऽइव । आ॒सी॒त् । मा॒त॒रिश्वा॑ । त॒दानी॑म् ॥८.३९॥
स्वर रहित मन्त्र
यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन्विश्वदाव्यः। यत्रातिष्ठन्नेकपत्नीः परस्तात्क्वेवासीन्मातरिश्वा तदानीम् ॥
स्वर रहित पद पाठयत् । अन्तरा । द्यावाथिवी इति । अग्नि: । ऐत् । प्रऽदहन् । विश्वऽदाव्य:। यत्र । अतिष्ठन् । एकऽपत्नी: । परस्तात् । क्वऽइव । आसीत् । मातरिश्वा । तदानीम् ॥८.३९॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 39
Translation -
When (in the period of dissolution) the all-consuming fire passes between heaven and the earth devouring everything with flame, when all the directions remain as far as having their one lord, the fire only, where does live this wind or the soul then ?