अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 13
अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः। यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥
स्वर सहित पद पाठअ॒ग्ने: । ते॒ । प्रा॒णम् । अ॒मृता॑त् । आयु॑ष्मत: । व॒न्वे॒ । जा॒तऽवे॑दस: । यथा॑ । न । रिष्या॑: । अ॒मृत॑: । स॒ऽजू: । अस॑: । तत् । ते॒ । कृ॒णो॒मि॒ । तत् । ऊं॒ इति॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् ॥२.१३॥
स्वर रहित मन्त्र
अग्नेष्टे प्राणममृतादायुष्मतो वन्वे जातवेदसः। यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥
स्वर रहित पद पाठअग्ने: । ते । प्राणम् । अमृतात् । आयुष्मत: । वन्वे । जातऽवेदस: । यथा । न । रिष्या: । अमृत: । सऽजू: । अस: । तत् । ते । कृणोमि । तत् । ऊं इति । ते । सम् । ऋध्यताम् ॥२.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 13
Translation -
O man ! I, the physician restore your life to you from the immortal, everlasting and all-pervading fire. I make you so as you not suffer death and harm caused thereby. you may be content, and let this all go well with you.