अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
अधि॑ ब्रूहि॒ मा र॑भथाः सृ॒जेमं तवै॒व सन्त्सर्व॑हाया इ॒हास्तु॑। भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यच्छतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥
स्वर सहित पद पाठअधि॑ । ब्रू॒हि॒ । मा । आ । र॒भ॒था॒: । सृ॒ज । इ॒मम् । तव॑ । ए॒व । सन् । सर्व॑ऽहाया: । इ॒ह । अ॒स्तु॒ । भवा॑शर्वौ । मृ॒डत॑म् । शर्म॑ । य॒च्छ॒त॒म् । अ॒प॒ऽसिध्य॑ । दु॒:ऽइ॒तम् । ध॒त्त॒म् । आयु॑: ॥२.७॥
स्वर रहित मन्त्र
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहाया इहास्तु। भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥
स्वर रहित पद पाठअधि । ब्रूहि । मा । आ । रभथा: । सृज । इमम् । तव । एव । सन् । सर्वऽहाया: । इह । अस्तु । भवाशर्वौ । मृडतम् । शर्म । यच्छतम् । अपऽसिध्य । दु:ऽइतम् । धत्तम् । आयु: ॥२.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 7
Translation -
Let this death make him to speak, let it not take him away. let it leave him to stay here, through this men is the subject of it yet let this man live here in all his vigor, let the Bhava and Sharva, the two fires give this man pleasure and protection and driving away troubles gibe full life.