अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 27
या पूर्वं॒ पतिं॑ वि॒त्त्वाऽथा॒न्यं वि॒न्दतेऽप॑रम्। पञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ॥
स्वर सहित पद पाठया । पूर्व॑म् । पति॑म् । वि॒त्त्वा । अथ॑ । अ॒न्यम् । वि॒न्दते॑ । अप॑रम् । पञ्च॑ऽओदनम् । च॒ । तौ । अ॒जम् । ददा॑त: । न । वि । यो॒ष॒त॒: ॥५.२७॥
स्वर रहित मन्त्र
या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम्। पञ्चौदनं च तावजं ददातो न वि योषतः ॥
स्वर रहित पद पाठया । पूर्वम् । पतिम् । वित्त्वा । अथ । अन्यम् । विन्दते । अपरम् । पञ्चऽओदनम् । च । तौ । अजम् । ददात: । न । वि । योषत: ॥५.२७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 27
Translation -
The woman who has been wedded to husband (but after his death) becomes wedded to another man, she and her husband both if surrender their eternal spirit living in body to each other with affection do not ever separate them from each other.