अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 31
यो वै नैदा॑घं॒ नाम॒र्तुं वेद॑। ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । नैदा॑घम्। नाम॑ । ऋ॒तुम् । वेद॑ । ए॒ष: । वै । नैदा॑घ: । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: । नि: । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । द॒ह॒ति॒ । भव॑ति । आ॒त्मना॑ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.३१॥
स्वर रहित मन्त्र
यो वै नैदाघं नामर्तुं वेद। एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । नैदाघम्। नाम । ऋतुम् । वेद । एष: । वै । नैदाघ: । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: । नि: । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । दहति । भवति । आत्मना । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.३१॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 31
Translation -
He who knows the season of scorching heat, in reality, the eternal soul brings in the body of five elements which is the season of scorching heat, burns up the glory of his nated rival certainly and decidedly lives with his spirit if he surrenders the eternal soul living in the body of five elements and possessing light of knowledge, to God.