अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 25
पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठपञ्च॑ । रु॒क्मा । पञ्च॑ । नवा॑नि । वस्रा॑ । पञ्च॑ । अ॒स्मै॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्ति॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२५॥
स्वर रहित मन्त्र
पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठपञ्च । रुक्मा । पञ्च । नवानि । वस्रा । पञ्च । अस्मै । धेनव: । कामऽदुघा: । भवन्ति । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 25
Translation -
For him who surrenders to God the eternal soul living in the body and possessing the light of knowledge five shining objects of perception, five good sheaths and five cognitive organs become the fulfiller of all desires.