अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 33
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑। सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । स॒म्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । सं॒य॒तीम्ऽसं॑यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । स॒म्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३३॥
स्वर रहित मन्त्र
यो वै संयन्तं नामर्तुं वेद। संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै संयन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । सम्ऽयन्तम् । नाम । ऋतुम् । वेद । संयतीम्ऽसंयतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । सम्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: ॥५.३३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 33
Translation -
He who knows the season called the Meeting (the Autumn) takes to himself the gathering fame, his hated rivals gathering fame. Really this eternal soul living in the body of five elements is Meeting season. He burns up the glory of his hated rivals certainly and decidedly lives with his spirit if he surrenders the eternal soul living in the body of five elements and possessing light to God.