अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 2
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
जा॑नी॒त स्मै॑नं पर॒मे व्योम॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ॥
स्वर सहित पद पाठजा॒नी॒त । स्म॒ । ए॒न॒म् । प॒र॒मे । विऽओ॑मन् । देवा॑: । सध॑ऽस्था: । वि॒द । लो॒कम् । अत्र॑ । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । इ॒ष्टा॒पू॒र्तम् । स्म॒ । कृ॒णु॒त॒ । आ॒वि: । अ॒स्मै॒ ॥१२३.२॥
स्वर रहित मन्त्र
जानीत स्मैनं परमे व्योमन्देवाः सधस्था विद लोकमत्र। अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥
स्वर रहित पद पाठजानीत । स्म । एनम् । परमे । विऽओमन् । देवा: । सधऽस्था: । विद । लोकम् । अत्र । अनुऽआगन्ता । यजमान: । स्वस्ति । इष्टापूर्तम् । स्म । कृणुत । आवि: । अस्मै ॥१२३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 2
भाषार्थ -
(सधस्थाः देवाः) हे दिव्यगुणी सधस्थो ! (एनम्) इस यजमान को (परमे व्योमन्) परम रक्षक परमेश्वर में स्थित (जानीत) जानो (अत्र) इस परमेश्वर में (लोकम्) इसका लोक (विद= विदथ) जानो। (यजमानः) दानयज्ञ या ध्यानयज्ञ करने वाला (अनु) दान के पश्चात् (स्वस्ति) कल्याण मार्ग की ओर (आगन्ता) आएगा (अस्मै) इसके लिये हे दिव्य सदस्थो ! (इष्टापूर्तम्) इसके अभीष्ट [मोक्ष] की पूर्ति (कृणुत) करो। [सधस्थाः देवाः मन्त्र (१) में कथित महात्मा। लोकम्= परमेश्वर रूपी आश्रय, निवास स्थान।]